ॐ ह्रीँ श्री शंखेश्वरपार्श्वनाथाय नम: દર્શન પોતે કરવા પણ બીજા મિત્રો ને કરાવવા આ ને મારું સદભાગ્ય સમજુ છું.........જય જીનેન્દ્ર.......

ऊँ ह्रीं श्रीँ माणिभद्र इन्द्र ! सर्वमंगलकारकः ।



ऊँ ह्रीं श्रीँ माणिभद्र इन्द्र ! सर्वमंगलकारकः ।
प्रत्यक्ष दर्शनं देहि मच्छ्रद्धा प्रीति-भक्त्तित: ॥१॥
विद्यां देहि धनं देहि पुत्रं च पुत्रीकाम् ।
कीर्तिँ देहि यशो देहि, प्रतिष्ठां देहि च स्त्रियम् ॥२॥
सर्वं मे वाञ्छितं देहि, सुखं शांति प्रदेहि में ।
वादे विवादे युद्धे च, जयं मेे कुरु सर्वत: ॥३॥
राज्यं च राज्यमानं च बलबुद्धिं प्रवर्द्धय।
गर्भस्थबालकं रक्ष, रोगेभ्यो रक्ष बालकान् ॥४॥

आधिं व्याधिं विपतिं च, महाभीतिं विनाशय ।
घातकेभ्यश्च मां रक्ष, रात्रौ दिवा च सर्वदा ५॥
अपमुत्यु प्रयोगाणां, नाशतो रक्ष मेें सदा।
दैवीसंकटतो रक्ष, आकस्मिकविपत्तित: ॥६॥
शाकिनी-भूत-वैतालान् राक्षसांश्च निवारय ।
वने रणे गृहे ग्रामे, रक्ष राज्यसभादिषु ॥७॥
इष्टसिद्धिं महासिद्धिं , जय लक्ष्मी विवर्द्धय ।
तपागच्छ-नायकं ऊँ ह्रींँ श्रीँ माणिभद्रवीरं ॥८॥
नमोस्तु ते मम शांति तृष्टिं पुष्टिं ऋद्धिं वृध्दिं ।
सिद्धिं समृद्धिं वश्यं रक्षां च, कुरु कुरु स्वाहा ॥९॥

No comments:

Post a Comment

Note: only a member of this blog may post a comment.